वन्दे मातरम् ( गीत )
वन्दे मातरम् ।
सुजलां सुफलां मलयजशीतलाम्
शस्यश्यामलां मातरम्
वन्दे मातरम् ।।
शुभ्रज्योत्स्नां पुलकितयामिनीम्
फुल्ल-कुसुमित-द्रुम-दल-शोभिनीम् ।
सुहासिनीं सुमधुरभाषिणीम्
सुखदां वरदां मातरम् ।
वन्दे मातरम् ।।
कोटि-कोटि कण्ठ कल-कल निनादकराले कोटि-कोटि भुजैर्धृत-खर- करवाले
बहुबलधारिणीं नमामि तारिणीं
रिपुदल वारिणीं मातरम्
वन्दे मातरम्
तुमि विद्या तुमि धर्म
तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहु ते तुमि मां शक्ति
तोमारई प्रतिमा गडि, मन्दिरे-मन्दिरे ।
वन्दे मातरम् ।।
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी नमामि त्वां
नमामि कमलाम् अमलाम् मातरम्
सुजलां सुफलां मातरम् ।
वन्दे मातरम् ।।
श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरम् ।
वन्दे मातरम् ।।
टिप्पणियाँ